|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.31. अध्यायः 031
Mahabharata - Drona Parva - Chapter Topics
अश्वत्थाम्ना नीलस्य वधः॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
धृतराष्ट्र उवाच। 7-31-0x(4329)(46099)
तेष्वनीकेषु भग्नेषु पाण्डुपुत्रेण सञ्जय। 5-31-1bचलितानां द्रुतानां च कथमासीन्मनांसि वः॥ 7-31-1(46100)
आनीकानां प्रभग्नानामवस्थानमपश्यताम्।
दुष्करं प्रतिसन्धानं तन्ममाचक्ष्व सञ्जय॥ 7-31-2(46101)
सञ्जय उवाच। 7-31-3x(4330)
तथापि तव पुत्रस्य प्रियकामा विशाम्पते।
यशः प्रवीरा लोकेषु रक्षन्तो द्रोणमन्वयुः॥ 7-31-3(46102)
समुद्यतेषु चास्त्रेषु सम्प्राप्ते च युधिष्ठिरे।
अकुर्वन्नार्यकर्माणि भैरवे सत्यभीतवत्॥ 7-31-4(46103)
अन्तरं भीमसेनस्य प्रापतन्नमितौजसः।
सात्यकेश्चैव वीरस्य धृष्टद्युम्नस्य वा विभो॥ 7-31-5(46104)
द्रोणं द्रोणमिति क्रूराः पाञ्चालाः समचोदयन्।
मा द्रोणमिति पुत्रास्ते कुरून्सर्वानचोदयन्॥ 7-31-6(46105)
द्रोणं द्रोणमिति ह्येके मा द्रोणमिति चापरे।
कुरूणां पाण्डवानां च द्रोणद्यूतमवतेत॥ 7-31-7(46106)
यंयं प्रमथते द्रोणः पाञ्चालानां रथव्रजम्।
तत्रतत्र तु पाञ्चाल्यो धृष्टद्युम्नोऽभ्यवर्तत॥ 7-31-8(46107)
तेषां भाग्यविपर्यासैः सङ्ग्रामे भैरवे सति।
वीराः समासदन्वीरान्कुर्वन्तो भैरवं रवम्॥ 7-31-9(46108)
अकम्पनीयाः शत्रूणां बभूवुस्तत्र पाण्डवाः।
अकम्पयन्ननीकानि स्मरन्तः क्लेशमात्मनः॥ 7-31-10(46109)
ते त्वमर्षवशं प्राप्ता हीमन्तः सत्वचोदिताः।
त्यक्त्वा प्राणान्न्यवर्तन्त घ्नन्तो द्रोणं महाहवे॥ 7-31-11(46110)
अयासमिव सम्पातः शिलानामिव चाभवत्।
दीव्यतां तुमुले युद्धे प्राणैरमिततेजसाम्॥ 7-31-12(46111)
नानुस्मरन्ति सङ्ग्राममपि वृद्धास्तथाविधम्।
ये पूर्वदेवैर्देवानामपश्यन्युद्धमद्भुतम्॥ 7-31-13(46112)
प्राकम्पतेव पृथिवी तस्मिन्वीरावसादने।
निवर्तता बलौघेन महता भारपीडिता॥ 7-31-14(46113)
घूर्णतोऽपि बलौघस्य दिवं स्तब्ध्वेव निःस्वनः।
अजातशत्रोस्तत्सैन्यमाविवेश सुभैरवः॥ 7-31-15(46114)
समासाद्य तु पाण्डूनामनीकानि सहस्रशः।
द्रोणेन चरता सङ्ख्ये प्रभग्नानि शितैः शरैः॥ 7-31-16(46115)
तेषु प्रमथ्यमानेषु द्रोणेनाद्भुतकर्मणा।
पर्यवरायदासाद्य द्रोणं सेनापतिः स्वयम्॥ 7-31-17(46116)
तदद्भुतमभूद्युद्धं द्रोणपाञ्चालयोस्तथा।
नैव तस्योपमा काचिदिति मे निश्चिता मतिः॥ 7-31-18(46117)
ततो नीलोऽनलप्रख्यो ददाह कुरुवाहिनीम्।
शरस्कुलिङ्गश्चापार्चिर्दिहन्कक्षमिवानलः॥ 7-31-19(46118)
तं दहन्तमनीकानि द्रोणपुत्रः प्रतापवान्।
पूर्वाभिभाषी सुश्लक्ष्णं स्मयमानोऽभ्यभाषत॥ 7-31-20(46119)
नील किं बहुभिर्दग्धैस्तव योधैः सरार्चिषा।
मयैकेन हि युध्यस्व क्रुद्धः प्रहर चाशु माम्॥ 7-31-21(46120)
तं पद्मनिकराकारं पद्मपत्रनिभेक्षणम्।
व्याकोशपद्माभमुखो नीलो विव्याध सायकैः॥ 7-31-22(46121)
तेनापि विद्धः सहसा द्रौणिर्भल्लैः शितैस्त्रिभिः।
धनुर्ध्वजं च च्छत्रं च द्विषतः सन्न्यकृन्तत॥ 7-31-23(46122)
स प्लुतः स्यन्दनात्तस्मान्नीलश्चर्मवरासिभृत्।
द्रौणायनेः शिरः कायाद्धर्तुमैच्छत्पतत्त्रिवत्॥ 7-31-24(46123)
तस्योद्यतासेः सुनसं शिरः कायात्सकुण्डलम्।
भल्लेनापाहरद्द्रौणिः स्मयमान इवानघ॥ 7-31-25(46124)
सम्पूर्णचन्द्राभमुखः पद्मपत्रनिभेक्षणः।
प्रांशुरुत्पलपत्राभो निहतो न्यपतद्भुवि॥ 7-31-26(46125)
ततः प्रविव्यथे सेना पाण्डवी भृशमाकुला।
आचार्यपुत्रेण हते नीले ज्वलिततेजसि॥ 7-31-27(46126)
अचिन्तयंश्च ते सर्वे पाण्डवानां महारथाः।
कथं नो वासविस्त्रायाच्छत्रुभ्य इति मारिष॥ 7-31-28(46127)
दक्षिणेन तु सेनायाः कुरुते कदनं बली।
संशप्तकावशेषस्य नारायणबलस्य च॥ ॥ 7-31-29(46128)
इति श्रीमन्महाभारते द्रोणपर्वणि संशप्तकवधपर्वणि द्वादशदिवसयुद्धे एकत्रिंशोऽध्यायः॥ 31 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-31-5 अन्तरं छिद्रम्। प्रापतन्सृतवन्तः॥ 5-31-7 पाण्डवान्याम इत्येव मा द्रोणमिति चापरे इति कः पाठः॥ 5-31-9 समासदन्प्रतिगतवन्तः॥ 5-31-11 न्यवर्तन्त भयेभ्यो निवृत्ताः। सत्यचोदिताः इति क.घ.ङ. पाठः॥ 5-31-31 एकत्रिंशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|